यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः। अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥५॥
yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ | akṣetravid yathā mugdho bhuvanāny adīdhayuḥ ||
यत्। त्वा॒। सू॒र्य॒। स्वः॑ऽभानुः। तम॑सा। अवि॑ध्यत्। आ॒सु॒रः। अक्षेत्र॑ऽवित्। यथा॑। मु॒ग्धः। भुव॑नानि। अ॒दी॒ध॒युः॒ ॥५॥
स्वामी दयानन्द सरस्वती
अब सूर्य्यविषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
अथ सूर्य्यविषयमाह ॥
हे सूर्य्य ! यथाऽक्षेत्रविन्मुग्धः किमपि कर्त्तुं न शक्नोति तथा यद्यः स्वर्भानुरासुरस्तमसाविध्यद् येन सूर्य्येण भुवनान्यदीधयुस्तं विदन्तं त्वा वयमाश्रयेम ॥५॥